|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.112. अध्यायः 112
Mahabharata - Drona Parva - Chapter Topics
सात्यकेः युधिष्ठिररक्षणे भीमं नियोज्यार्जुनदर्शनाय प्रस्थानम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-112-0x(4545)(49284)
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः।
स पार्थाद्भयमाशंसन्परित्यागान्महीपतेः॥ 7-112-1(49285)
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः।
न मां भीतमिति ब्रूयात्प्रयान्तं फल्गुनं प्रति॥ 7-112-2(49286)
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः।
नातिव्यक्तमिवाभाष्य धर्मराजं महायशाः॥ 7-112-3(49287)
शोकगद्गदया वाचा शोकोपहतचेतनः।
यथेदानीमिति ध्यात्वा धर्मराजमथाब्रवीत्॥ 7-112-4(49288)
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशाम्पते।
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव॥ 7-112-5(49289)
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते।
यो मे प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते॥ 7-112-6(49290)
तस्याहं पदवीं यास्ये सन्देशात्तव मानद।
त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन॥ 7-112-7(49291)
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर।
तथा तवापि वचनं विशिष्टतरमेव मे॥ 7-112-8(49292)
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ।
तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव॥ 7-112-9(49293)
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो।
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरपुङ्गव॥ 7-112-10(49294)
द्रणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्।
तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः॥ 7-112-11(49295)
यत्र सेनान्तमाश्रित्य भीतस्तिष्ठति पाण्डवात्।
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः॥ 7-112-12(49296)
इतिस्त्रियोजनं मन्ये तमध्वानं विशाम्पते।
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः॥ 7-112-13(49297)
त्रियोजनगतस्यापि तस्य यास्याभ्यहं पदम्।
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना॥ 7-112-14(49298)
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः।
आदिष्टस्तु यथा राजन्को न युध्येत मादृशः॥ 7-112-15(49299)
अभिजानामि तं देशमितः पूर्णं त्रियोजनम्।
यत्र तिष्ठति राजाऽसौ सैन्धवो बालघातकः॥ 7-112-16(49300)
सागरप्रतिमं सैन्यं गर्जन्तमिव सागरम्।
हलशक्तिगदाप्रासचर्मखङ्गर्ष्टितोमरम्।
इष्वस्त्रवरसम्बाधं क्षोभयित्वा व्रजाम्यहम्॥ 7-112-17(49301)
यदेतत्कुञ्जरानीकं सहस्रमनुपश्यसि।
कुलमाञ्जनकं नाम यत्रैते वीर्यशालिनः॥ 7-112-18(49302)
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः।
नागा नगनिभा राजन्क्षरन्त इव तोयदाः॥ 7-112-19(49303)
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः।
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः॥ 7-112-20(49304)
अथ यान्रथिनो राजन्सहस्रमनुपश्यसि।
एते रुक्मरथा नाम राजपुत्रा महारथाः॥ 7-112-21(49305)
रथेष्वस्त्रेषु निपुणा नागेषु च विशाम्पते।
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः॥ 7-112-22(49306)
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा।
खङ्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः॥ 7-112-23(49307)
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम्।
नित्यं हि समरे राजन्विजिगीषन्ति मानवान्॥ 7-112-24(49308)
कर्णेन विहिता राजन्दुःशासनमनुव्रताः।
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति॥ 7-112-25(49309)
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः।
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात्॥ 7-112-26(49310)
ते न क्लान्ता न च श्रान्ता दृढावरणकार्मुकाः।
मदर्थेऽधिष्ठिता नूनं धार्तराष्ट्रस्य शासनात्॥ 7-112-27(49311)
एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव।
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः॥ 7-112-28(49312)
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानिमान्।
प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान्॥ 7-112-29(49313)
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना।
स्वलङ्कृतांस्तदा प्रेष्यानिच्छञ्जीवितमात्मनः॥ 7-112-30(49314)
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम्।
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम्॥ 7-112-31(49315)
एषामेते महामात्राः किराता युद्धदुर्मदाः।
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः॥ 7-112-32(49316)
एते विनिर्जिताः सङ्ख्ये सङ्ग्रामे सव्यसाचिना।
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः॥ 7-112-33(49317)
एतान्हत्वा शरै राजन्किरातान्युद्धदुर्मदान्।
सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम्॥ 7-112-34(49318)
ये त्वेते सुमहानाग अञ्जनस्य कुलोद्भवाः।
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः॥ 7-112-35(49319)
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः।
लब्धलक्षा रणे राजन्नैरावणसमा युधि॥ 7-112-36(49320)
आस्थिता दस्युभिस्तीक्ष्णैः शूरैरुत्तमपार्वतैः।
कर्कशैः प्रवरैर्योधैः काष्णार्यसतनुच्छदैः॥ 7-112-37(49321)
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः।
अनेकयोनयश्चान्ये तथा मानुषयोनयः॥ 7-112-38(49322)
अनीकमसतामेतद्भूम्रवर्णमुदीर्यते।
म्लेच्छानां पापकर्तॄणां हिमदुर्गनिवासिनाम्॥ 7-112-39(49323)
एतद्दुर्योधनो लब्ध्वा समग्रं राजमण्डलम्।
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम्॥ 7-112-40(49324)
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान्।
कृतार्थमथ चात्मानं मन्यते कालचोदितः॥ 7-112-41(49325)
ते तु सर्वेऽद्य सम्प्राप्ता मम नाराचगोचरम्।
नभविष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः॥ 7-112-42(49326)
तेन संभाविता नित्यं परवीर्योपजीविना।
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः॥ 7-112-43(49327)
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः।
एते दुर्वारणा नाम काम्भोजा यदि ते श्रुताः॥ 7-112-44(49328)
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः।
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः॥ 7-112-45(49329)
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत।
यत्ता मदर्थे तिष्ठन्ति कुरुवीराभिरक्षिताः॥ 7-112-46(49330)
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः।
तानहं प्रमथिष्यामि तृणानीव हुताशनः॥ 7-112-47(49331)
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च।
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः॥ 7-112-48(49332)
अस्मिंस्तु किल सम्मर्दे ग्राह्यं विविधमायुधम्।
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः॥ 7-112-49(49333)
काम्भोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः।
नानाशस्त्रसमावायैर्विविधायुधयोधिभिः॥ 7-112-50(49334)
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः।
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः॥ 7-112-51(49335)
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः।
अग्निकल्पैर्युराधर्षैः प्रदीप्तैरिव पावकैः॥ 7-112-52(49336)
तथाऽन्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः।
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः॥ 7-112-53(49337)
`त्रियोजनगतस्यापि पदवीं सव्यसाचिनः।
यास्यामि रथिनां श्रेष्ठं प्रवरं च धनुष्मताम्॥ 7-112-54(49338)
सूर्योदयगतस्याहं पाण्डवस्य गतिं चरन्।
अपराह्णगते सूर्ये गमिष्यामि न संशयः'॥ 7-112-55(49339)
तस्माद्वै वाजिनो मुख्यान्विश्रुताञ्शुभलक्षणैः।
उपावृत्तांश्च पीतांश्च पुनर्युञ्जन्तु मे रथे॥ 7-112-56(49340)
सञ्जय उवाच। 7-112-57x(4546)
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च।
रथे चास्थापयद्राजा शस्त्राणि विविधानि च॥ 7-112-57(49341)
ततस्तान्सर्वतोमुक्तान्सदश्वांश्चतुरो जनाः।
रसवत्पाययामासुः पानं मदसमीरणम्॥ 7-112-58(49342)
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान्।
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः॥ 7-112-59(49343)
तान्युक्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः।
संहृष्टमनसो व्यग्रान्विधिवत्कल्पितान्रथे॥ 7-112-60(49344)
महाध्वजेन सिंहेन हेमकेसरमालिना।
संवृते केतकैर्हैर्मैर्मणिविद्रुमचित्रितैः॥ 7-112-61(49345)
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते।
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे।
योजयामास विधिवद्धेमभाण्डविभूषितान्॥ 7-112-62(49346)
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा।
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः॥ 7-112-63(49347)
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः।
स्नातकानां सहस्रस्य स्वर्णनिष्कानथो ददौ॥ 7-112-64(49348)
आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः।
ततः समधुपर्काम्भः पीत्वा कैरातकं मधु॥ 7-112-65(49349)
लोहिताक्षो बभौ तत्र मदविह्वललोचनः।
आलभ्य वीरकांस्यं च हर्षेण महताऽन्वितः॥ 7-112-66(49350)
द्विगुणीकृततेजोभिः प्रज्वलन्निव पावकः।
उत्सङ्गे धनुरादाय सशरं रथिनां वरः॥ 7-112-67(49351)
`आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः'।
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः॥ 7-112-68(49352)
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः।
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः॥ 7-112-69(49353)
तेन मूर्धन्युपाघ्रातः कृतस्वस्ययनोऽपि च।
आशिषो विविधाः श्रुत्वा धर्मराजमुखेरिताः।
हर्षेण महता युक्त आरुरोह महारथम्॥ 7-112-70(49354)
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः।
अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः।
यथा शक्ररथं राजन्नूहुस्ते हरयः पुरा॥ 7-112-71(49355)
तथैव भीमसेनोऽपि धर्मराजेन पूजितः।
प्रायात्सात्यकिना सार्धमभिवाद्य युधिष्ठिरम्॥ 7-112-72(49356)
तौ दृष्ट्वा प्रविविक्षन्तौ तव सेनामरिंदमौ।
संयत्तास्तावकाः सर्वे तस्थुर्द्रोणपुरोगमाः॥ 7-112-73(49357)
सन्नद्धमनुगच्छन्तं दृष्ट्वा भीमं स सात्यकिः।
अभिनन्द्याब्रवीद्वीरस्तदा हर्षकरं वचः॥ 7-112-74(49358)
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते।
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम्॥ 7-112-75(49359)
आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम्।
जानीषे मम वीर्यं त्वं तव चाहमरिन्दम।
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम्॥ 7-112-76(49360)
सञ्जय उवाच। 7-112-77x(4547)
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये।
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम॥ 7-112-77(49361)
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः।
गच्छ गच्छ ध्रुवं पार्थ ध्रुवो हि विजयो मम॥ 7-112-78(49362)
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशमास्थितः।
निमित्तानि च धन्यानि यथा भीम वदन्ति मां॥ 7-112-79(49363)
निहते सैन्धवे पापे पाण्डवेन महात्मना।
परिष्वजिष्ये राजानं धर्मात्मानं युधिष्ठिरम्।
`अप्रमादश्च ते कार्यो द्रोणं प्रति महारथम्'॥ 7-112-80(49364)
सञ्चय उवाच। 7-112-81x(4548)
एतावदुक्त्वा भीमं तु विसृज्य च महायशाः।
सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव॥ 7-112-81(49365)
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप।
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत॥ 7-112-82(49366)
ततः प्रयातः सहसा तव सैन्यं स सात्यकिः।
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ॥ ॥ 7-112-83(49367)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्वादशाधिकशततमोऽध्यायः॥ 112 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-112-2 ते मां भीतमिति ब्रूयुरयान्तं इति झ. पाठः॥ 5-112-14 आसैन्धववधात् सैन्धववधात्प्रागेव॥ 5-112-17 हलादितोमरान्तमार्श आद्यजन्तम्॥ 5-112-23 सम्पाते विहरणे॥ 5-112-30 तदा दिग्विजये॥ 5-112-35 अञ्जनस्य वरुणोपवाह्यस्य॥ 5-112-35 तेन दुर्योधनेन। 5-112-43 सम्भावितः सम्वर्धिताः॥ 5-112-49 पञ्चगुणः पञ्चगुणस्नमग्रीकः॥ 5-112-50 नानाशस्त्राणां समावायः समूहो येषु॥ 5-112-56 पीताः पायितपेयाः॥ 5-112-61 केतकैः कुन्दघटितशलाकाभिः॥ 5-112-64 स्वर्णनिष्कान् दीनारान्॥ 5-112-65 ततः समधुपर्कार्हः पीत्वा कैलातकं मधु इति झ.ञ.पाठः। कैलावतं मधु इति ङ.पाठः॥ 5-112-76 आयत्यामुत्तरकाले। तदात्वे तत्क्षणे॥ 5-112-112 द्वादशाधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|